|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.97. अध्यायः 097
Mahabharata - Adi Parva - Chapter Topics
सपुत्रायाः शकुन्तलाया दुप्यन्तसमीपगमनं॥ 1 ॥ तयोः संवादश्च॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-97-0x(615)(4244)
गतान्मुनिगणान्दृष्ट्वा पुत्रं संगृह्य पाणिना।
मातापितृभ्यां रहिता यथा शोचन्ति दारकाः॥ 1-97-1(4245)
तथा शोकपरीताङ्गी धृतिमालम्ब्य दुःखिता।
गतेषु तेषु विप्रेषु राजमार्गेण भामिनी॥ 1-97-2(4246)
पुत्रेणैव सहायेन सा जगाम शनैः शनैः।
अदृष्टपूर्वान्पश्यन्वै राजमार्गेण पौरवः॥ 1-97-3(4247)
हर्म्यप्रसादचैत्यांश्च सभा दिव्या विचित्रिताः।
कौतूहलसमाविष्टो दृष्ट्वा विस्मयमागतः॥ 1-97-4(4248)
सर्वे ब्रुवन्ति तां दृष्ट्वा पद्महीनामिव श्रियम्।
गत्या च संहीसदृशीं कोकिलेन स्वरे समाम्॥ 1-97-5(4249)
मुखेन चन्द्रसदृशीं श्रिया पद्मालयासमाम्।
स्मितेन कुन्दसदृशीं पद्मगर्भसमत्वचम्॥ 1-97-6(4250)
पद्मपत्रविशालाक्षीं तप्तजाम्बूनदप्रभाम्।
करान्तमितमध्यैषा सुकेशी संहतस्तनी॥ 1-97-7(4251)
जघनं सुविशालं वै ऊरू करिकरोपमौ।
रक्ततुङ्गतलौ पादौ धरण्यां सुप्रतिष्ठितौ॥ 1-97-8(4252)
एवं रूपसमायुक्ता स्वर्गलोकादिवागता।
इति स्म सर्वेऽमन्यन्त दुष्यन्तनगरे जनाः॥ 1-97-9(4253)
पुनः पुनरवोचंस्ते शाकुन्तलगुणानपि।
सिंहेक्षणः सिंहदंष्ट्रः सिंहस्कन्धो महाभुजः॥ 1-97-10(4254)
सिंहोरस्कः सिंहबलः सिंहविक्रान्तगाम्ययम्।
पृथ्वंसः पृथुवक्षाश्च छत्राकारशिरा महान्॥ 1-97-11(4255)
पाणिपादतले रक्तो रक्तास्यो दुन्दुभिस्वनः।
राजलक्षणयुक्तश्च राजश्रीश्चास्य लक्ष्यते॥ 1-97-12(4256)
आकारेण च रूपेण शरीरेणापि तेजसा।
दुष्यन्तेन समो ह्येष कस्य पुत्रो भविष्यति॥ 1-97-13(4257)
एवं ब्रुवन्तस्ते सर्वे प्रशशंसुः सहस्रशः।
युक्तिवादानवोचन्त सर्वाः प्राणभृतः स्त्रियः॥ 1-97-14(4258)
बान्धवा इव सस्नेहा अनुजग्मुः शकुन्तलाम्।
पौराणां तद्वचः श्रुत्वा तूष्णींभूता शकुन्तला॥ 1-97-15(4259)
वेश्मद्वारं समासाद्य विह्वला सा नृपात्मजा।
चिन्तयामास सहसा कार्यगौरवकारणात्॥ 1-97-16(4260)
लज्जया च परीताङ्गी राजन्राजसमक्षतः।
अघृणा किं नु वक्ष्यामि दुष्यन्तं मम कारणात्॥ 1-97-17(4261)
एवमुक्त्वा तु कृपणा चिन्तयन्ती शकुन्तला।'
अभिसृत्य च राजानं वेदिता सा प्रवेशिता॥ 1-97-18(4262)
सह तेन कुमारेण तरुणादित्यवर्चसा।
`सिंहासनस्थं राजानं महेन्द्रसदृशद्युतिम्॥ 1-97-19(4263)
शकुन्तला नतशिराः परं हर्षमवाप्य च।'
पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला॥ 1-97-20(4264)
`अभिवादय राजानं पितरं ते दृढव्रतम्।
एवमुक्त्वा सुतं तत्र लज्जानतमुखी स्थिता॥ 1-97-21(4265)
स्तम्भमालिङ्ग्य राजानं प्रसीदस्वेत्युवाच सा।
शाकुन्तलोपि राजानमभिवाद्य कृताञ्जलिः॥ 1-97-22(4266)
हर्षेणोत्फुल्लनयनो राजानं चान्ववैक्षत।
दुष्यन्तो धर्मबुद्ध्या तु चिन्तयन्नेव सोब्रवीत्॥ 1-97-23(4267)
किमागमनकार्यं ते ब्रूहि त्वं वरवर्णिनि।
करिष्यामि न संदेहः सपुत्राया विशेषतः॥ 1-97-24(4268)
शकुन्तलोवाच। 1-97-25x(616)
प्रसीदस्व महाराज वक्ष्यामि पुरुषोत्तम।
एष पुत्रो हि ते राजन्मय्युत्पन्नः परंतप॥ 1-97-25(4269)
तस्मात्पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम्।
यथोक्तमाश्रमे तस्मिन्वर्तस्व पुरुषोत्तम॥ 1-97-26(4270)
मया समागमे पूर्वं कृतः स समयस्त्वया।
तत्त्वं स्मर महाबाहो कण्वाश्रमपदं प्रति॥ 1-97-27(4271)
वैशम्पायन उवाच। 1-97-28x(617)
तस्योपभोगसक्तस्य स्त्रीषु चान्यासु भारत।
शकुन्तला सपुत्रा च मनस्यन्तरधीयत॥ 1-97-28(4272)
स धारयन्मनस्येनां सपुत्रां सस्मितां तदा।
तदोपगृह्य मनसा चिरं सुखमवाप सः॥ 1-97-29(4273)
सोऽथ श्रुत्वापि तद्वाक्यं तस्या राजा स्मरन्नपि।
अब्रवीन्न स्मरामीति त्वया भद्रे समागमम्॥ 1-97-30(4274)
मैथुनं च वृथा नाहं गच्छेयमिति मे मतिः।
नाभिजानामि कल्याणि त्वया सह समागमम्'॥ 1-97-31(4275)
धर्मार्थकामसंबन्धं न स्मरामि त्वया सह।
गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु॥ ॥ 1-97-32(4276)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सप्तनवतितमोऽध्यायः॥ 97 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|